Savitribai fule kavita

  1. सावित्रीबाई फुले संस्कृत निबंध तथा जीवन परिचय Savitribai Phule Essay in Sanskrit


Download: Savitribai fule kavita
Size: 10.6 MB

सावित्रीबाई फुले संस्कृत निबंध तथा जीवन परिचय Savitribai Phule Essay in Sanskrit

Savitribai Phule Essay in Sanskrit : In this article we are providing सावित्रीबाई फुले संस्कृत निबंध which is also searched as " Savitribai Phule ka Jeevan Parichay Sanskrit Mein." This Savitribai Phule anuched in sanskrit is ideal for class 4, 5, 6, 7, 8, 9 and 10. सावित्रीबाई फुले संस्कृत निबंध तथा जीवन परिचयSavitribai Phule Essay in Sanskrit जनवरी मासस्य तृतीये दिवसे १८३१ तमे ख्रिस्ताब्दे महाराष्ट्रस्य नायगांव-नाम्नि स्थाने सावित्री अजायत। तस्याः माता लक्ष्मीबाई पिता च खंडोजी इति अभिहितौ। नववर्षदेशीया सा ज्योतिबा-फुले-महोदयेन परिणीता। सोऽपि तदानीं त्रयोदशवर्षकल्पः एव आसीत्। यतोहि सः स्त्रीशिक्षायाः प्रबलः समर्थकः आसीत् अत: सावित्र्याः मनसि स्थिता अध्ययनाभिलाषा उत्साह प्राप्तवती। इतः परं सा साग्रहम् आङ्ग्लभाषाया अपि अध्ययनं कृतवती। सामाजिककुरीतीनां सावित्री मुखरं विरोधं अकरोत्। विधवानां शिरोमुण्डनस्य निराकरणाय सा साक्षात् नापितैः मिलिता। फलतः केचन नापिताः अस्यां रूढौ सहभागिताम् अत्यजन्। एकदा सावित्र्या मार्गे दृष्टं यत् कूपं निकषा शीर्णवस्त्रावृताः तथाकथिताः निम्नजातीयाः काश्चित् नार्यः जलं पातुं याचन्ते स्म। उच्चवर्गीयाः उपहासं कुर्वन्तः कूपात् जलोद्धरणम् अवारयन्। सावित्री एतत् अपमानं सोढुं नाशक्नोत्। सा ताः स्त्रियः निजगृहं नीतवती। तडागं दर्शयित्वा अकथयत् च यत् यथेष्टं जलं नयत। सार्वजनिकोऽयं तडागः। अस्मात् जलग्रहणे नास्ति जातिबन्धनम्। तया मनुष्याणां समानतायाः स्वतन्त्रतायाश्च पक्षः सर्वदा सर्वथा समर्थितः।